२.६.१३

सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च ।
ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा ॥

पदच्छेदः

सभासुसभा (७.३)
चैव (अव्ययः)–एव (अव्ययः)
सर्वासुसर्व (७.३)
वृक्षेष्व्वृक्ष (७.३)
आलक्षितेषुआलक्षित (√आ-लक्षय् + क्त, ७.३)
(अव्ययः)
ध्वजाःध्वज (१.३)
समुच्छ्रिताश्समुच्छ्रित (√समुत्-श्रि + क्त, १.३)
चित्राःचित्र (१.३)
पताकाश्पताका (१.३)
चाभवंस् (अव्ययः)–अभवन् (√भू लङ् प्र.पु. बहु.)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भासु चै र्वासु
वृ क्षे ष्वाक्षि तेषु
ध्व जाः मुच्छ्रि ता श्चि त्राः
ता का श्चा वंस्त दा