२.६०.१२

तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम् ।
राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम् ॥

अन्वयः

अथ thereafter, आदिष्टाः having been instructed, अमात्याः counsellors, जगतीपतिम् the (corpse) of the lord of the world (Dasartha), तैलद्रोण्याम् in an oil tub, संवेश्य keeping, अनन्तरम् thereafter, कर्माणि ceremonies, सर्वाणि all, चक्रुः performed.

M N Dutt

Then placing the corpse of the king in a (capacious) pan with oil, the courtiers performed the mourning rites of the monarch.

Summary

The counsellors, instructed (by Vasistha and others), placed the king's body in an oil tub with the understanding that the funeral rites were to be performed hereafter.

पदच्छेदः

तैलद्रोण्याम्तैल–द्रोणी (७.१)
अथामात्याःअथ (अव्ययः)–अमात्य (१.३)
संवेश्यसंवेश्य (√सम्-वेशय् + ल्यप्)
जगतीपतिम्जगतीपति (२.१)
राज्ञःराजन् (६.१)
सर्वाण्य्सर्व (२.३)
अथादिष्टाश्अथ (अव्ययः)–आदिष्ट (√आ-दिश् + क्त, १.३)
चक्रुःचक्रुः (√कृ लिट् प्र.पु. बहु.)
कर्माण्य्कर्मन् (२.३)
अनन्तरम्अनन्तरम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तै द्रो ण्या था मा त्याः
सं वेश्य ती तिम्
रा ज्ञः र्वाण्य था दि ष्टा
श्च क्रुः र्माण्यन्त रम्