२.६५.१२

कलिङ्ग नगरे चापि प्राप्य सालवनं तदा ।
भरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः ॥

अन्वयः

 भरतः Bharata, एकसाले at Ekasala village, स्थाणुमतीम् Sthanumati river, विनते at Vinata village, गोमतीं नदीम् Gomati river, सुपरिश्रान्तवाहनः with extremely fatigued horses, तदा then, कलिङ्गनगरे चापि at Kalinganagara, सालवनम् sala forest, प्राप्य having reached, क्षिप्रम् quickly, आगच्छत् came.

पदच्छेदः

कलिङ्गनगरेकलिङ्ग–नगर (७.१)
चापि (अव्ययः)–अपि (अव्ययः)
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
सालवनंसाल–वन (२.१)
तदातदा (अव्ययः)
भरतःभरत (१.१)
क्षिप्रम्क्षिप्रम् (अव्ययः)
आगच्छत्आगच्छत् (√आ-गम् लङ् प्र.पु. एक.)
सुपरिश्रान्तवाहनःसु (अव्ययः)–परिश्रान्त (√परि-श्रम् + क्त)–वाहन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

लिङ्ग रे चापि
प्राप्य सा नं दा
तः क्षिप्र माच्छ
त्सु रि श्रान्त वा नः