२.७.१०

उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते ।
उपप्लुतमहौघेन किमात्मानं न बुध्यसे ॥

अन्वयः

मूढे O senseless one, उत्तिष्ठ get up, किम् why, शेषे are sleeping, भयम् fear, त्वाम् you, अभिवर्तते is approaching you, अमौघेन in a sea of perils, उपप्लुताम् floating, आत्मानम् about yourself, न बुध्यसे why do not you realise?

Summary

O senseless one, why are you lying down? Get up A great fear is gripping you. Why don't you realise that you are floating in a sea of perils.

पदच्छेदः

उत्तिष्ठउत्तिष्ठ (√उत्-स्था लोट् म.पु. )
मूढेमूढ (√मुह् + क्त, ८.१)
किं (१.१)
शेषेशेषे (√शी लट् म.पु. )
भयंभय (१.१)
त्वाम्त्वद् (२.१)
अभिवर्ततेअभिवर्तते (√अभि-वृत् लट् प्र.पु. एक.)
उपप्लुतमहौघेनउपप्लुत (√उप-प्लु + क्त)–महत्–ओघ (३.१)
किम् (२.१)
आत्मानंआत्मन् (२.१)
(अव्ययः)
बुध्यसेबुध्यसे (√बुध् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्तिष्ठ मू ढे किं शे षे
यं त्वाभिर्त ते
प्लु हौ घे
कि मा त्मा नं बुध्य से