२.७.४

अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ।
उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ॥

पदच्छेदः

अविदूरेअविदूर (७.१)
स्थितांस्थित (√स्था + क्त, २.१)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
धात्रींधात्री (२.१)
पप्रच्छपप्रच्छ (√प्रच्छ् लिट् प्र.पु. एक.)
मन्थरामन्थरा (१.१)
उत्तमेनाभिसंयुक्ताउत्तम (३.१)–अभिसंयुक्त (√अभिसम्-युज् + क्त, १.१)
हर्षेणार्थपराहर्ष (३.१)–अर्थ–पर (१.१)
सतीसती (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि दू रेस्थि तां दृ ष्ट्वा
धा त्रीं प्रच्छन्थ रा
त्त मे नाभि सं यु क्ता
र्षे णार्थ रा ती