२.७०.२२

ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः ।
यानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः ॥

अन्वयः

ततः then, रुदन्त्यो weeping, विवशाः uncontrolled, वराङ्गनाः courtesans, पुनः पुनः again and again, विलप्य lamenting, सरयूतीरम् on the bank of the river Sarayu, यानेभ्यः from the carriages, अवतेरुः alighted.

M N Dutt

Weeping again and again with their sense lost, the wives of the king alighted from the car on the banks of the Sarayu.

Summary

Thereafter, the courtesans weeping uncontrollably and, lamenting again and again, alighted from carriages on the bank of the river Sarayu.

पदच्छेदः

ततोततस् (अव्ययः)
रुदन्त्योरुदत् (√रुद् + शतृ, १.३)
विवशाविवश (१.३)
विलप्यविलप्य (√वि-लप् + ल्यप्)
(अव्ययः)
पुनःपुनर् (अव्ययः)
पुनःपुनर् (अव्ययः)
यानेभ्यःयान (५.३)
सरयूतीरम्सरयू–तीर (२.१)
अवतेरुर्अवतेरुः (√अव-तृ लिट् प्र.पु. बहु.)
वराङ्गनाःवर–अङ्गना (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोरु न्त्योवि शा
विप्यपु नःपु नः
या ने भ्यः यू ती
ते रुर्व राङ्ग नाः