२.७७.११

ये च तत्रापरे सर्वे संमता ये च नैगमाः ।
रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तदा ॥

अन्वयः

तत्र there, ये च अपरे all the others, सम्मताः respectable, ये च नैगमाः those merchants, तथा similarly, सर्वाः all, प्रकृतयः subjects, हृष्टाः delighted, रामम् प्रति to Rama, ययुः went along.

M N Dutt

And all other, and the foremost merchants as well as all the principal classes, joyfully went in quest of Rāma.

Summary

Respectable city folks, like traders and other subjects went along in great delight towards Rama.

पदच्छेदः

येयद् (१.३)
(अव्ययः)
तत्रापरेतत्र (अव्ययः)–अपर (१.३)
सर्वेसर्व (१.३)
संमतासंमत (√सम्-मन् + क्त, १.३)
येयद् (१.३)
(अव्ययः)
नैगमाःनैगम (१.३)
रामंराम (२.१)
प्रतिप्रति (अव्ययः)
ययुर्ययुः (√या लिट् प्र.पु. बहु.)
हृष्टाःहृष्ट (√हृष् + क्त, १.३)
सर्वाःसर्व (१.३)
प्रकृतयस्प्रकृति (१.३)
तदातदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ये त्रा रे र्वे
सं ता ये नै माः
रा मंप्रति यु र्हृ ष्टाः
र्वाःप्रकृस्त दा