२.७८.२

महतीयमतः सेना सागराभा प्रदृश्यते ।
नास्यान्तमवगच्छामि मनसापि विचिन्तयन् ॥

अन्वयः

इतः this side, सागराभा looking like an ocean, इयम् this, महती vast, सेना army, प्रदृश्यते appearing, मनसा in my mind, विचिन्तयन्नपि even by thinking, अस्याः this army's, अन्तम् end, नाधिगच्छामि I am not able to reach.

M N Dutt

This mighty host here appears like an ocean. I do not find its end even by thinking of it in my mind.

Summary

Here is an army as vast as the ocean, and I am unable to comprehend its magnitude even mentally.

पदच्छेदः

महतीयम्महत् (१.१)–इदम् (१.१)
अतःअतस् (अव्ययः)
सेनासेना (१.१)
सागराभासागर–आभ (१.१)
प्रदृश्यतेप्रदृश्यते (√प्र-दृश् प्र.पु. एक.)
नास्यान्तम् (अव्ययः)–इदम् (६.१)–अन्त (२.१)
अवगच्छामिअवगच्छामि (√अव-गम् लट् उ.पु. )
मनसापिमनस् (३.१)–अपि (अव्ययः)
विचिन्तयन्विचिन्तयत् (√वि-चिन्तय् + शतृ, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ती तः से ना
सा रा भाप्र दृश्य ते
ना स्यान्त च्छामि
सापिवि चिन्त यन्