२.७९.२१

गुहेन सार्धं भरतः समागतो; महानुभावः सजनः समाहितः ।
सुदुर्मनास्तं भरतं तदा पुन;र्गुहः समाश्वासयदग्रजं प्रति ॥

अन्वयः

महानुभावः magnanimous, सजनः along with his people, भरतः Bharata, समाहितः with a composed mind, गुहेन सार्धं with Guha, समागतः joined, तदा then, सुदुर्मनाः with greatly distraught mind, गुहः Guha, तं भरतम् that Bharata, पुनः again, अग्रजं प्रति about elder brother Rama, आश्वासयत् consoled.

M N Dutt

Meeting with Guha, the magnanimous Bharata accompanied by his people, engrossed with the thoughts of Rāma, became oppressed with grief. (Seeing this), Guha by and by encouraged Bharata concerning his elder brother.

Summary

Bharata, a man of great magnanimity, joined Guha together with his people with composed mind. Then Guha, greatly distraught, again consoled Bharata regarding his elder brother Rama.इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे पञ्चाशीतितमस्सर्गः॥Thus ends the eightyfifth sarga in Ayodhyakanda of the holy Ramayana, the first epic composed by sage Valmiki.

पदच्छेदः

गुहेनगुह (३.१)
सार्धंसार्धम् (अव्ययः)
भरतःभरत (१.१)
समागतोसमागत (√समा-गम् + क्त, १.१)
महानुभावःमहत्–अनुभाव (१.१)
सजनः (अव्ययः)–जन (१.१)
समाहितःसमाहित (१.१)
सुदुर्मनास्सु (अव्ययः)–दुर्मनस् (१.१)
तंतद् (२.१)
भरतंभरत (२.१)
तदातदा (अव्ययः)
पुनर्पुनर् (अव्ययः)
गुहःगुह (१.१)
समाश्वासयद्समाश्वासयत् (√समा-श्वासय् लङ् प्र.पु. एक.)
अग्रजंअग्रज (२.१)
प्रतिप्रति (अव्ययः)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
गु हे सा र्धं तः मा तो
हानु भा वः नः माहि तः
सु दुर्म ना स्तं तं दापु
र्गु हः मा श्वाग्र जंप्रति