२.८२.७

गीतवादित्रनिर्घोषैर्वराभरणनिःस्वनैः ।
मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ॥

पदच्छेदः

गीतवादित्रनिर्घोषैर्गीत–वादित्र–निर्घोष (३.३)
वराभरणनिःस्वनैःवर–आभरण–निःस्वन (३.३)
मृदङ्गवरशब्दैश्मृदङ्ग–वर–शब्द (३.३)
(अव्ययः)
सततंसततम् (अव्ययः)
प्रतिबोधितःप्रतिबोधित (√प्रति-बोधय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

गी वा दित्र नि र्घो षै
र्व रा निःस्व नैः
मृङ्ग ब्दैश्च
तंप्रति बोधि तः