२.८३.२२

आश्वासयित्वा च चमूं महात्मा; निवेशयित्वा च यथोपजोषम् ।
द्रष्टुं भरद्वाजमृषिप्रवर्य;मृत्विग्वृतः सन्भरतः प्रतस्थे ॥

अन्वयः

महात्मा the noble one, भरतः Bharata, चमूम् the army, आश्वासयित्वा having rested, यथोपजोषम् according to their pleasure, निवेशयित्वा having encamped, ऋषिप्रवर्यम् the distinguished rishi, भरद्वाजम् Bharadwaja, द्रष्टुम् to see, ऋत्विग्वृतस्सन् surrounded by his priests, प्रतस्थे set out.

Summary

The noble Bharata, got his army encamped according to their pleasure and set out, accompanied by his priests, to see the distinguished sage Bharadwaja.

पदच्छेदः

आश्वासयित्वाआश्वासयित्वा (√आ-श्वासय् + ल्यप्)
(अव्ययः)
चमूंचमू (२.१)
महात्मामहात्मन् (१.१)
निवेशयित्वानिवेशयित्वा (√नि-वेशय् + ल्यप्)
(अव्ययः)
यथोपजोषम्यथा (अव्ययः)–उपजोष (२.१)
द्रष्टुंद्रष्टुम् (√दृश् + तुमुन्)
भरद्वाजम्भरद्वाज (२.१)
ऋत्विग्वृतःऋत्विज्–वृत (√वृ + क्त, १.१)
सन्सत् (√अस् + शतृ, १.१)
भरतःभरत (१.१)
प्रतस्थेप्रतस्थे (√प्र-स्था लिट् प्र.पु. एक.)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
श्वा यि त्वा मूं हा त्मा
नि वे यि त्वा थो जो षम्
द्र ष्टुं द्वामृ षिप्रर्य
मृ त्विग्वृ तःन्भ तःप्र स्थे