२.८५.३०

सितमेघनिभं चापि राजवेश्म सुतोरणम् ।
शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥

पदच्छेदः

सितमेघनिभंसित–मेघ–निभ (१.१)
चापि (अव्ययः)–अपि (अव्ययः)
राजवेश्मराजन्–वेश्मन् (१.१)
सुतोरणम्सु (अव्ययः)–तोरण (१.१)
शुक्लमाल्यकृताकारंशुक्ल–माल्य–कृत (√कृ + क्त)–आकार (१.१)
दिव्यगन्धसमुक्षितम्दिव्य–गन्ध–समुक्षित (√सम्-उक्ष् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सि मेनि भं चापि
रा वेश्मसु तो णम्
शुक्ल माल्यकृ ता का रं
दिव्यन्ध मुक्षि तम्