२.८५.६७

ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे ।
बभूवुः पायसस्यान्ते शर्करायाश्च संचयाः ॥

पदच्छेदः

ह्रदाःह्रद (१.३)
पूर्णापूर्ण (√पृ + क्त, १.३)
रसालस्यरसाल (६.१)
दध्नःदधि (६.१)
श्वेतस्यश्वेत (६.१)
चापरे (अव्ययः)–अपर (१.३)
बभूवुःबभूवुः (√भू लिट् प्र.पु. बहु.)
पायसस्यान्तेपायस (६.१)–अन्त (७.१)
शर्करायाश्शर्करा (६.१)
(अव्ययः)
संचयाःसंचय (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ह्र दाः पू र्णा सास्य
ध्नः श्वेस्य चा रे
भू वुः पा स्या न्ते
र्क रा याश्च सं याः