२.८८.३

न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः ।
मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥

अन्वयः

हे भद्रे O gentle one, इमम् this, रमणीयम् lovely, गिरिम् mountain, दृष्ट्वा beholding, राज्यात् from the kingdom, भ्रंशनम् expulsion, मे मनः my mind, न बाधते does not pain, सुहृद्भिर्विनाभवः separation from friends, न does not pain.

M N Dutt

O gentle one, neither deprivation of the kingdom nor separation from friends afflicts my mind on beholding this romantic mountain.

Summary

O gentle one, when I behold this lovely mountain, neither the expulsion from the kingdom nor being away from friends pains my mind.

पदच्छेदः

(अव्ययः)
राज्याद्राज्य (५.१)
भ्रंशनंभ्रंशन (१.१)
भद्रेभद्र (८.१)
(अव्ययः)
सुहृद्भिर्सुहृद् (३.३)
विनाभवःविनाभव (१.१)
मनोमनस् (१.१)
मेमद् (६.१)
बाधतेबाधते (√बाध् लट् प्र.पु. एक.)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
रमणीयम्रमणीय (२.१)
इमंइदम् (२.१)
गिरिम्गिरि (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा ज्या द्भ्रं नं द्रे
सु हृ द्भिर्वि ना वः
नो मे बा ते दृ ष्ट्वा
णीमि मंगि रिम्