२.९.१३

तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया ।
तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने ॥

पदच्छेदः

तत्रापितत्र (अव्ययः)–अपि (अव्ययः)
विक्षतःविक्षत (√वि-क्षन् + क्त, १.१)
शस्त्रैःशस्त्र (३.३)
पतिस्पति (१.१)
तेत्वद् (६.१)
रक्षितस्रक्षित (√रक्ष् + क्त, १.१)
त्वयात्वद् (३.१)
तुष्टेनतुष्ट (√तुष् + क्त, ३.१)
तेनतद् (३.१)
दत्तौदत्त (√दा + क्त, १.२)
तेत्वद् (४.१)
द्वौद्वि (१.२)
वरौवर (१.२)
शुभदर्शनेशुभ–दर्शन (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रापि विक्ष तः स्त्रैः
ति स्तेक्षिस्त्व या
तु ष्टे ते त्तौ ते
द्वौ रौशुर्श ने