२.९.२५

येन कालेन रामश्च वनात्प्रत्यागमिष्यति ।
तेन कालेन पुत्रस्ते कृतमूलो भविष्यति ।
संगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान् ॥

अन्वयः

येन कालेन by the time, राम: च Rama also, वनात् from the forest, प्रत्यागमिष्यति returns, तेन कालेन by then, ते your, आत्मवान् confident, पुत्र: son, सुगृहीतमनुष्य: people whose affection has been gained, सुहृद्भि: सार्धम् in the company of friends, कृतमूल: deeprooted, भविष्यति will become.

Summary

By the time Rama returns from the forest, your son (now) confident, would have become deep rooted by gaining the company of friends and the acceptability of the people.

पदच्छेदः

येनयद् (३.१)
कालेनकाल (३.१)
रामश्राम (१.१)
(अव्ययः)
वनात्वन (५.१)
प्रत्यागमिष्यतिप्रत्यागमिष्यति (√प्रत्या-गम् लृट् प्र.पु. एक.)
तेनतद् (३.१)
कालेनकाल (३.१)
पुत्रस्पुत्र (१.१)
तेत्वद् (६.१)
कृतमूलोकृत (√कृ + क्त)–मूल (१.१)
भविष्यतिभविष्यति (√भू लृट् प्र.पु. एक.)
संगृहीतमनुष्यश्संगृहीत (√सम्-ग्रह् + क्त)–मनुष्य (१.१)
(अव्ययः)
सुहृद्भिःसुहृद् (३.३)
सार्धम्सार्धम् (अव्ययः)
आत्मवान्आत्मवत् (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
ये का ले राश्च ना त्प्र त्या
मिष्यति ते का ले पु त्र स्ते
कृ मू लो विष्यति संगृ ही
नु ष्यश्चसु हृ द्भिः सार्ध मात्म वान्