२.९३.१९

शक्रायुध निकाशैश्च कार्मुकैर्भारसाधनैः ।
रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः ॥

पदच्छेदः

शक्रायुधनिकाशैश्शक्रायुध–निकाश (३.३)
(अव्ययः)
कार्मुकैर्कार्मुक (३.३)
भारसाधनैःभार–साधन (३.३)
रुक्मपृष्ठैर्रुक्म–पृष्ठ (३.३)
महासारैःमहत्–सार (३.३)
शोभितांशोभित (√शोभय् + क्त, २.१)
शत्रुबाधकैःशत्रु–बाधक (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्रायुनि का शैश्च
कार्मु कै र्भा सा नैः
रुक्म पृ ष्ठैर्म हा सा रैः
शोभि तांत्रु बा कैः