२.९३.२५

तं तु कृष्णाजिनधरं चीरवल्कलवाससं ।
ददर्श राममासीनमभितः पावकोपमम् ॥

पदच्छेदः

तंतद् (२.१)
तुतु (अव्ययः)
कृष्णाजिनधरंकृष्ण–अजिन–धर (२.१)
चीरवल्कलवाससम्चीर–वल्कल–वासस् (२.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
रामम्राम (२.१)
आसीनम्आसीन (√आस् + क्त, २.१)
अभितःअभितस् (अव्ययः)
पावकोपमम्पावक–उपम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तंतु कृ ष्णाजि रं
चील्क वा सं
र्श रा मा सी
भि तः पा को मम्