२.९४.३५

ब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा ।
जितेन्द्रियैर्महोत्साहैर्वृतामात्यैः सहस्रशः ॥

पदच्छेदः

ब्राह्मणैःब्राह्मण (३.३)
क्षत्रियैर्क्षत्रिय (३.३)
वैश्यैःवैश्य (३.३)
स्वकर्मनिरतैःस्व–कर्मन्–निरत (√नि-रम् + क्त, ३.३)
सदासदा (अव्ययः)
जितेन्द्रियैर्जित (√जि + क्त)–इन्द्रिय (३.३)
महोत्साहैर्महत्–उत्साह (३.३)
वृताम्वृत (√वृ + क्त, २.१)
आर्यैःआर्य (३.३)
सहस्रशःसहस्रशस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्राह्म णैः क्षत्रि यै र्वै श्यैः
स्वर्मनि तैः दा
जि तेन्द्रि यैर्म हो त्सा है
र्वृ ता मा त्यैःस्र शः