२.९४.३६

प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।
कच्चित्समुदितां स्फीतामयोध्यां परिरक्षसि ॥

पदच्छेदः

प्रासादैर्प्रासाद (३.३)
विविधाकारैर्विविध–आकार (३.३)
वृतांवृत (√वृ + क्त, २.१)
वैद्यजनाकुलाम्वैद्य–जन–आकुल (२.१)
कच्चित्कच्चित् (अव्ययः)
समुदितांसमुदित (√समुत्-इ + क्त, २.१)
स्फीताम्स्फीत (२.१)
अयोध्यांअयोध्या (२.१)
परिरक्षसिपरिरक्षसि (√परि-रक्ष् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रा सा दैर्विवि धा का रै
र्वृ तां वैद्य नाकु लाम्
च्चित्समुदि तां स्फी ता
यो ध्यांरिक्षसि