२.९४.३९

अदेवमातृको रम्यः श्वापदैः परिवर्जितः ।
कच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥

पदच्छेदः

अदेवमातृकोअदेव–मातृक (१.१)
रम्यःरम्य (१.१)
श्वापदैःश्वापद (३.३)
परिवर्जितःपरिवर्जित (√परि-वर्जय् + क्त, १.१)
कच्चिज्जनपदःकच्चित् (अव्ययः)–जनपद (१.१)
स्फीतःस्फीत (१.१)
सुखंसुखम् (अव्ययः)
वसतिवसति (√वस् लट् प्र.पु. एक.)
राघवराघव (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दे मातृ को म्यः
श्वा दैःरिर्जि तः
च्चिज्ज दः स्फी तः
सु खंति रा