२.९६.२८

किमेष वाक्यं भरतोऽद्य राघवं; प्रणम्य सत्कृत्य च साधु वक्ष्यति ।
इतीव तस्यार्यजनस्य तत्त्वतो; बभूव कौतूहलमुत्तमं तदा ॥

अन्वयः

एषः this, भरतः Bharata, अद्य now, राघवम् to Rama, प्रणम्य having paid his homage, सत्कृत्य च also honouring him, साधु of good, किं वाक्यम् what words, वक्ष्यति will speak, इतीव thus as if, तदा of that, तस्य those, आर्यजनस्य of nobility, तत्त्वतः truly, उत्तमम् great, कौतूहलम् curiosity, बभूव arose.

Summary

All noble people were truly filled with great curiosity as to what Bharata was going to speak, after paying his homage and honouring Rama.

पदच्छेदः

किम् (२.१)
एषएतद् (१.१)
वाक्यंवाक्य (२.१)
भरतोभरत (१.१)
ऽद्यअद्य (अव्ययः)
राघवंराघव (२.१)
प्रणम्यप्रणम्य (√प्र-नम् + ल्यप्)
सत्कृत्यसत्कृत्य (√सत्-कृ + ल्यप्)
(अव्ययः)
साधुसाधु (२.१)
वक्ष्यतिवक्ष्यति (√वच् लृट् प्र.पु. एक.)
इतीवइति (अव्ययः)–इव (अव्ययः)
तस्यार्यजनस्यतद् (६.१)–आर्य–जन (६.१)
तत्त्वतोतत्त्व (५.१)
बभूवबभूव (√भू लिट् प्र.पु. एक.)
कौतूहलम्कौतूहल (१.१)
उत्तमंउत्तम (१.१)
तदातदा (अव्ययः)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
कि मे वा क्यं तोऽद्य रा वं
प्रम्य त्कृत्य साधुक्ष्यति
ती स्यार्यस्यत्त्व तो
भू कौ तू मुत्त मं दा