२.९६.२७

उपोपविष्टस्तु तदा स वीर्यवां;स्तपस्विवेषेण समीक्ष्य राघवम् ।
श्रिया ज्वलन्तं भरतः कृताञ्जलि;र्यथा महेन्द्रः प्रयतः प्रजापतिम् ॥

अन्वयः

वीर्यवान् extremely powerful, सः that, भरतः Bharata, तपस्विवेषेण dressed as an ascetic, श्रिया with majesty, ज्वलन्तम् radiating, राघवम् Rama, प्रयतः purified by religious austerities, महेन्द्रः great Indra, प्रजापतिं यथा like Brahma, the creator, समीक्ष्य having looked at, कृताञ्जलिः with folded palms, तदा then, उपोपविष्टः तु sat next to him.

Summary

Beholding Rama attired like an ascetic but radiant with a majestic glow, the extremely valiant Bharata sat near him with folded palms like the great Indra purified by religious austerities sits near Brahma, the creator.

पदच्छेदः

उपोपविष्टस्उपोपविष्ट (√उपोप-विश् + क्त, १.१)
तुतु (अव्ययः)
तदातदा (अव्ययः)
तद् (१.१)
वीर्यवांस्वीर्यवत् (१.१)
तपस्विवेषेणतपस्विन्–वेष (३.१)
समीक्ष्यसमीक्ष्य (√सम्-ईक्ष् + ल्यप्)
राघवम्राघव (२.१)
श्रियाश्री (३.१)
ज्वलन्तंज्वलत् (√ज्वल् + शतृ, २.१)
भरतःभरत (१.१)
कृताञ्जलिर्कृत (√कृ + क्त)–अञ्जलि (१.१)
यथायथा (अव्ययः)
महेन्द्रःमहत्–इन्द्र (१.१)
प्रयतःप्रयत (√प्र-यम् + क्त, १.१)
प्रजापतिम्प्रजापति (२.१)

छन्दः

वंशस्थम् [१२: जतजर]

छन्दोविश्लेषणम्

१०१११२
पो वि ष्टस्तु दा वीर्य वां
स्तस्वि वे षे मीक्ष्य रा वम्
श्रि याज्व न्तं तःकृ ताञ्जलि
र्य था हे न्द्रःप्र तःप्र जा तिम्