२.९७.१

तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम् ।
लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥

अन्वयः

भ्रात्रा brother, लक्ष्मणेन सह along with Lakshmana, रामः Rama, गुरुवत्सलम् to one devoted to elders, भ्रातरम् to brother, तम् that Bharata, समाश्वास्य having consoled, प्रष्टुम् to question, समुपचक्रमे commenced.

M N Dutt

Knowing Bharata as devoted to his superior Răma along with his brother Lakşmaņa, asked him.

Summary

Rama with his brother Lakshmana having consoled Bharata who is ever devoted to elders began to question:

पदच्छेदः

तंतद् (२.१)
तुतु (अव्ययः)
रामःराम (१.१)
समाश्वास्यसमाश्वास्य (√समा-श्वासय् + ल्यप्)
भ्रातरंभ्रातृ (२.१)
गुरुवत्सलम्गुरु–वत्सल (२.१)
लक्ष्मणेनलक्ष्मण (३.१)
सहसह (अव्ययः)
भ्रात्राभ्रातृ (३.१)
प्रष्टुंप्रष्टुम् (√प्रच्छ् + तुमुन्)
समुपचक्रमेसमुपचक्रमे (√समुप-क्रम् लिट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तंतु रा मः मा श्वास्य
भ्रा रंगुरुत्स लम्
क्ष्म णे भ्रा त्रा
प्र ष्टुंमुक्र मे