२.९८.३०

वयसः पतमानस्य स्रोतसो वानिवर्तिनः ।
आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥

अन्वयः

स्रोतसो वा like the flow, अनिवर्तिनः never returns, वयसः of age, पतमानस्य while declining, आत्मा mind, सुखे in happiness (in the righteous act as source of hapiness), नियोक्तव्यः is to be established, प्रजाः people, सुखभाजः tend to be happy, स्मृताः it is said.

Summary

Like the flow of water which never reverts to its source, age passes. Therefore, a man must employ his self in righteous acts that bring him happiness. By doing so, it is said, people will always be happy.

पदच्छेदः

वयसःवयस् (६.१)
पतमानस्यपतमान (√पत् + शानच्, ६.१)
स्रोतसोस्रोतस् (६.१)
वानिवर्तिनःवा (अव्ययः)–अनिवर्तिन् (६.१)
आत्माआत्मन् (१.१)
सुखेसुख (७.१)
नियोक्तव्यःनियोक्तव्य (√नि-युज् + कृत्, १.१)
सुखभाजःसुख–भाज् (१.३)
प्रजाःप्रजा (१.३)
स्मृताःस्मृत (√स्मृ + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सः मास्य
स्रो सो वानिर्ति नः
त्मासु खेनि यो क्त व्यः
सु भा जःप्र जाःस्मृ ताः