२.९८.९

स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।
स तां नानुभवेत्प्रीतिं यस्य हेतोः प्रभावितः ॥

पदच्छेदः

तद् (१.१)
यदायदा (अव्ययः)
पुष्पितोपुष्पित (१.१)
भूत्वाभूत्वा (√भू + क्त्वा)
फलानिफल (२.३)
(अव्ययः)
विदर्शयेत्विदर्शयेत् (√वि-दर्शय् विधिलिङ् प्र.पु. एक.)
तद् (१.१)
तांतद् (२.१)
नानुभवेत् (अव्ययः)–अनुभवेत् (√अनु-भू विधिलिङ् प्र.पु. एक.)
प्रीतिंप्रीति (२.१)
यस्ययद् (६.१)
हेतोःहेतु (५.१)
प्रभावितःप्रभावित (√प्र-भावय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दा पुष्पि तो भू त्वा
लानिविर्श येत्
तां नानु वे त्प्री तिं
स्य हे तोःप्र भावि तः