२.९९.१८

छायां ते दिनकरभाः प्रबाधमानं; वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।
एतेषामहमपि काननद्रुमाणां; छायां तामतिशयिनीं सुखं श्रयिष्ये ॥

अन्वयः

भरत O Bharata, वर्षत्रम् an umbrella, दिनकरभाः the sunshine, प्रबाधमानाम् repelling, ते मूर्ध्नि over your head, शीताम् cool, छायाम् shade, करोतु let it provide, अहमपि I also, सुखी one with happiness, एतेषाम् these, काननद्रुमाणाम् woodland trees, अतिशयिनीम् dense, ताम् in that, छायाम् shade, श्रयिष्ये shall take refuge.

Summary

Let an umbrella protect you against (scorching) sunshine and provide its cool shade over your head, O Bharata As for me, I shall happily seek the shade of these dense woodland trees.

पदच्छेदः

छायांछाया (२.१)
तेत्वद् (६.१)
दिनकरभाःदिनकर–भास् (१.१)
प्रबाधमानंप्रबाधमान (√प्र-बाध् + शानच्, २.१)
वर्षत्रंवर्षत्र (२.१)
भरतभरत (८.१)
करोतुकरोतु (√कृ लोट् प्र.पु. एक.)
मूर्ध्निमूर्धन् (७.१)
शीताम्शीत (२.१)
एतेषाम्एतद् (६.३)
अहम्मद् (१.१)
अपिअपि (अव्ययः)
काननद्रुमाणांकानन–द्रुम (६.३)
छायांछाया (२.१)
ताम्तद् (२.१)
अतिशयिनींअतिशयिन् (२.१)
सुखंसुखम् (अव्ययः)
श्रयिष्येश्रयिष्ये (√श्रि लृट् उ.पु. )

छन्दः

प्रहर्षिणी [१३: मनजरग]

छन्दोविश्लेषणम्

१०१११२१३
छा यां तेदि भाःप्र बा मा नं
र्ष त्रं रोतु मूर्ध्नि शी ताम्
ते षापि काद्रु मा णां
छा यां तातियि नींसु खंश्र यि ष्ये