२.९९.१७

त्वं राजा भव भरत स्वयं नराणां; वन्यानामहमपि राजराण्मृगाणाम् ।
गच्छ त्वं पुरवरमद्य संप्रहृष्टः; संहृष्टस्त्वहमपि दण्डकान्प्रवेक्ष्ये ॥

अन्वयः

भरत O Bharata, त्वम् you, स्वयम् yourself, नराणाम् for men, राजा भव be king, अहमपि I also, वन्यानाम् of the wild forest, मृगाणाम् of the beasts, राजराट् shall become supreme king, त्वम् you, सम्प्रम्हृष्टः in delight, अद्य now, पुरवरम् to the best of cities, गच्छ go, अहमपि and I also, संहृष्टः wellpleased, दण्डकान् in Dandaka forest, प्रवेक्ष्ये shall enter.

Summary

O Bharata, be the king of men. I shall also become the supreme king of the wild beasts in the forest. Go now happily to Ayodhya, the best of cities, and I shall enter Dandaka forest with delight.

पदच्छेदः

त्वंत्वद् (१.१)
राजाराजन् (१.१)
भवभव (√भू लोट् म.पु. )
भरतभरत (८.१)
स्वयंस्वयम् (अव्ययः)
नराणांनर (६.३)
वन्यानाम्वन्य (६.३)
अहम्मद् (१.१)
अपिअपि (अव्ययः)
राजराण्राजन्–राज् (१.१)
मृगाणाम्मृग (६.३)
गच्छगच्छ (√गम् लोट् म.पु. )
त्वंत्वद् (१.१)
पुरवरम्पुरवर (२.१)
अद्यअद्य (अव्ययः)
सम्प्रहृष्टःसम्प्रहृष्ट (√सम्प्र-हृष् + क्त, १.१)
संहृष्टस्संहृष्ट (√सम्-हृष् + क्त, १.१)
त्व्तु (अव्ययः)
अहम्मद् (१.१)
अपिअपि (अव्ययः)
दण्डकान्दण्डक (२.३)
प्रवेक्ष्येप्रवेक्ष्ये (√प्र-विश् लृट् उ.पु. )

छन्दः

प्रहर्षिणी [१३: मनजरग]

छन्दोविश्लेषणम्

१०१११२१३
त्वं रा जास्व यं रा णां
न्या नापि रा राण्मृ गा णाम्
च्छ त्वंपुद्य संप्र हृ ष्टः
सं हृ ष्टस्त्वपिण्ड कान्प्र वे क्ष्ये