२.९९.३

पुरा भ्रातः पिता नः स मातरं ते समुद्वहन् ।
मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥

अन्वयः

भ्रातः my dear brother, पुरा earlier, सः that, नः पिता our father, ते मातरम् to your mother, समुद्वहन् at the time of wedding, मातामहे to (your) maternal grandfather, अनुत्तमम् the best, राज्यशुल्कम् kingdom with good revenue, समाश्रौषीत् had promised.

Summary

Earlier when our father was to wed your mother, O dear brother, he had promised to your maternal grandfather that he would confer (on her) a kingdom with good revenue.

पदच्छेदः

पुरापुरा (अव्ययः)
भ्रातःभ्रातृ (८.१)
पितापितृ (१.१)
नःमद् (६.३)
तद् (१.१)
मातरंमातृ (२.१)
तेत्वद् (६.१)
समुद्वहन्समुद्वहत् (√समुत्-वह् + शतृ, १.१)
मातामहेमातामह (७.१)
समाश्रौषीद्समाश्रौषीत् (√समा-श्रु प्र.पु. एक.)
राज्यशुल्कम्राज्य–शुल्क (२.१)
अनुत्तमम्अनुत्तम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पु रा भ्रा तःपि ता नः
मा रं ते मुद्व हन्
मा ता हे मा श्रौ षी
द्राज्य शुल्क नुत्त मम्