३.१०.४५

एतदेवाश्रमपदं नूनं तस्य महात्मनः ।
अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः ॥

अन्वयः

एतदेव this alone is, महात्मनः of the great one, पुण्यकर्मणः of holy deeds, अगस्त्यस्य मुनेः Sage Agastya's, भ्रातुः brother's, तस्य his, आश्रमपदम् hermitage, दृश्यते is seen, नूनम् surely.

M N Dutt

'Surely we see the asylumn of that high-souled one, the ascetic, Agastya's brother of pious acts.

Summary

Surely this is the hermitage of great Agastya's brother, a man of holy deeds.

पदच्छेदः

एतद्एतद् (१.१)
एवाश्रमपदंएव (अव्ययः)–आश्रम–पद (१.१)
नूनंनूनम् (अव्ययः)
तस्यतद् (६.१)
महात्मनःमहात्मन् (६.१)
अगस्त्यस्यअगस्त्य (६.१)
मुनेर्मुनि (६.१)
भ्रातुर्भ्रातृ (६.१)
दृश्यतेदृश्यते (√दृश् प्र.पु. एक.)
पुण्यकर्मणःपुण्य–कर्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दे वाश्र दं
नू नंस्य हात्म नः
स्त्यस्यमु ने र्भ्रातु
र्दृश्य ते पुण्यर्म णः