३.१३.१२

ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि ।
तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् ॥

पदच्छेदः

ताम्रांताम्रा (२.१)
क्रोधवशांक्रोधवशा (२.१)
चैव (अव्ययः)–एव (अव्ययः)
मनुंमनु (२.१)
चाप्य् (अव्ययः)–अपि (अव्ययः)
अनलाम्अनला (२.१)
अपिअपि (अव्ययः)
तास्तद् (२.३)
तुतु (अव्ययः)
कन्यास्कन्या (२.३)
ततःततस् (अव्ययः)
प्रीतःप्रीत (√प्री + क्त, १.१)
कश्यपःकश्यप (१.१)
पुनर्पुनर् (अव्ययः)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता म्रां क्रो शां चै
नुं चाप्य लापि
तास्तु न्यास्त तः प्री तः
श्य पःपुब्र वीत्