३.१६.९

प्रियरूपं विरूपा सा सुस्वरं भैरवस्वना ।
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥

पदच्छेदः

प्रियरूपंप्रिय–रूप (२.१)
विरूपाविरूप (१.१)
सातद् (१.१)
सुस्वरंसु (अव्ययः)–स्वर (२.१)
भैरवस्वराभैरव–स्वर (१.१)
तरुणंतरुण (२.१)
दारुणादारुण (१.१)
वृद्धावृद्ध (१.१)
दक्षिणंदक्षिण (२.१)
वामभाषिणीवाम–भाषिन् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्रि रू पंवि रू पा सा
सुस्व रं भैस्व ना
रु णं दारु णा वृ द्धा
क्षि णं वा भाषि णी