३.२.११

प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ ।
कथं तापसयोर्वां च वासः प्रमदया सह ॥

पदच्छेदः

प्रविष्टौप्रविष्ट (√प्र-विश् + क्त, १.२)
दण्डकारण्यंदण्डक–अरण्य (२.१)
शरचापासिधारिणौशर–चाप–असि–धारिन् (१.२)
कथंकथम् (अव्ययः)
तापसयोर्तापस (६.२)
वांत्वद् (६.२)
(अव्ययः)
वासःवास (१.१)
प्रमदयाप्रमदा (३.१)
सहसह (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र वि ष्टौण्ड का ण्यं
चा पासि धारि णौ
थं ता यो र्वां
वा सःप्र या