३.२१.२०

मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः ।
खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः ॥

पदच्छेदः

मुद्गरैःमुद्गर (३.३)
पट्टिशैःपट्टिश (३.३)
शूलैःशूल (३.३)
सुतीक्ष्णैश्सु (अव्ययः)–तीक्ष्ण (३.३)
(अव्ययः)
परश्वधैःपरश्वध (३.३)
खड्गैश्खड्ग (३.३)
चक्रैश्चक्र (३.३)
(अव्ययः)
हस्तस्थैर्हस्त–स्थ (३.३)
भ्राजमानैश्भ्राजमान (√भ्राज् + शानच्, ३.३)
(अव्ययः)
तोमरैःतोमर (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मुद्ग रैःट्टि शैः शू लैः
सु ती क्ष्णैश्चश्व धैः
ड्गै श्च क्रैश्च स्त स्थै
र्भ्रा मा नैश्च तो रैः