३.२२.२०

तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात् ।
मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् ॥

अन्वयः

अहम् I, ताराः stars, अपि even, तीक्ष्णैः with sharp, शरैः by arrows, नभस्स्थलात् from the sky, पातयामि I will dislodge, सङ्क्रुद्धः if angered, मृत्युम् god of death, मरणधर्मेण mortal nature, योजयामि will cause.

Summary

With my sharp arrows I can even bring down the stars from the sky. If angered, I can cause mortality to the god of death.

पदच्छेदः

तारातारा (२.३)
अपिअपि (अव्ययः)
शरैस्शर (३.३)
तीक्ष्णैःतीक्ष्ण (३.३)
पातयेयंपातयेयम् (√पातय् विधिलिङ् उ.पु. )
नभस्तलात्नभस्तल (५.१)
मृत्युंमृत्यु (२.१)
मरणधर्मेणमरण–धर्म (३.१)
संक्रुद्धोसंक्रुद्ध (√सम्-क्रुध् + क्त, १.१)
योजयाम्य्योजयामि (√योजय् लट् उ.पु. )
अहम्मद् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता रापि रै स्ती क्ष्णैः
पा ये यंस्त लात्
मृ त्युं र्मे
सं क्रु द्धो यो याम्य हम्