३.२२.२१

राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम् ।
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे ॥

अन्वयः

बलोत्सिक्तम् man proud of his strength, तं राघवम् to that Rama, अस्य and his, भ्रातरम् brother, लक्ष्मणं च and Lakshmana, तीक्ष्णैः by sharp, सायकैः with arrows, अहत्वा without killing, उपावर्तितुम् to return, नोत्सहे I am not intending.

Summary

I do not wish to return, without killing with my sharp arrows that Rama who is proud of his strength and his brother Lakshmana.

पदच्छेदः

राघवंराघव (२.१)
तंतद् (२.१)
बलोत्सिक्तंबल–उत्सिक्त (√उत्-सिच् + क्त, २.१)
भ्रातरंभ्रातृ (२.१)
चापि (अव्ययः)–अपि (अव्ययः)
लक्ष्मणम्लक्ष्मण (२.१)
अहत्वाअहत्वा (अव्ययः)
सायकैस्सायक (३.३)
तीक्ष्णैर्तीक्ष्ण (३.३)
नोपावर्तितुम् (अव्ययः)–उपावर्तितुम् (√उपा-वृत् + तुमुन्)
उत्सहेउत्सहे (√उत्-सह् लट् उ.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा वं तं लो त्सि क्तं
भ्रा रं चापिक्ष्म णम्
त्वा सा कै स्ती क्ष्णै
र्नो पार्तितु मुत्स हे