३.२३.९

उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः ।
निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः ॥

अन्वयः

लक्ष्मण Lakshmana, युद्धार्थम् for war, उद्यतानाम् of those making effort, येषाम् of those, वदनम् face, निष्प्रभम् pale, भवति becomes, तेषाम् their, आयुः life, परिक्षयः shortened, भवति become.

M N Dutt

O Lakşmaņa, the pallid face of those that prepare for conflict, auger shortening of life.

Summary

O Lakshmana, while preparing for war, those whose faces look pale are, for sure, going to die.

पदच्छेदः

उद्यतानांउद्यत (√उत्-यम् + क्त, ६.३)
हिहि (अव्ययः)
युद्धार्थंयुद्ध–अर्थ (२.१)
येषांयद् (६.३)
भवतिभवति (√भू लट् प्र.पु. एक.)
लक्ष्मणःलक्ष्मण (१.१)
निष्प्रभंनिष्प्रभ (१.१)
वदनंवदन (१.१)
तेषांतद् (६.३)
भवत्य्भवति (√भू लट् प्र.पु. एक.)
आयुःपरिक्षयःआयुस्–परिक्षय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्य ता नांहि यु द्धा र्थं
ये षांतिक्ष्म णः
निष्प्र भं नं ते षां
त्या युः रिक्ष यः