३.२७.२७

ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् ।
षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः ॥

पदच्छेदः

ततोततस् (अव्ययः)
ऽस्यइदम् (६.१)
युगम्युग (२.१)
एकेनएक (३.१)
चतुर्भिश्चतुर् (३.३)
चतुरोचतुर् (२.३)
हयान्हय (२.३)
षष्ठेनषष्ठ (३.१)
(अव्ययः)
शिरःशिरस् (२.१)
संख्येसंख्य (७.१)
चिछेदचिछेद (√छिद् लिट् प्र.पु. एक.)
खरसारथेःखर–सारथि (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोऽस्ययु मे के
तु र्भिश्चतु रो यान्
ष्ठेशि रः सं ख्ये
चि च्छे सा थेः