३.२८.१९

कुलं व्यपदिशन्वीरः समरे कोऽभिधास्यति ।
मृत्युकाले हि संप्राप्ते स्वयमप्रस्तवे स्तवम् ॥

अन्वयः

मृत्युकाले when death, सम्प्राप्ते comes, वीरः hero, कः who, समरे in war, कुलम् his race, व्यपदिशन् naming, अप्रस्तवे unnecessarily, स्वयम् himself, स्तवम् praise, अभिधास्यति will talk of.

M N Dutt

What hero, when the hour of his death has approached, publishes in the field his own lofty lineage and sings his own hymn.

Summary

When death comes in a battle no hero will name his race and boast of himself unnessarily.

पदच्छेदः

कुलंकुल (२.१)
व्यपदिशन्व्यपदिशत् (√व्यप-दिश् + शतृ, १.१)
वीरःवीर (१.१)
समरेसमर (७.१)
को (१.१)
ऽभिधास्यतिअभिधास्यति (√अभि-धा लृट् प्र.पु. एक.)
मृत्युकालेमृत्यु–काल (७.१)
हिहि (अव्ययः)
सम्प्राप्तेसम्प्राप्त (√सम्प्र-आप् + क्त, ७.१)
स्वयम्स्वयम् (अव्ययः)
अप्रस्तवेअप्रस्तव (७.१)
स्तवम्स्तव (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

कु लंव्यदि न्वी रः
रे कोऽभि धास्यति
मृत्यु का लेहि सं प्रा प्ते
स्व प्रस्त वेस्त वम्