३.३.२४

रक्षसां गतसत्त्वानामेष धर्मः सनातनः ।
अवटे ये निधीयन्ते तेषां लोकाः सनातनाः ॥

अन्वयः

राम Rama, माम् me, अवटे in the pit, प्रक्षिप्य on burying, कुशली proper, व्रज you may go, गतसत्त्वाम् who are dead, रक्षसाम् of the demons, एषः this one, सनातनः eternal, धर्मः justice, ये those, अवटे विनिक्षिप्यन्ते buried in a pit, तेषाम् to them, सनातनाः eternal, लोकाः in other worlds (heaven)

Summary

Bury me in the pit, O Rama, and proceed happily. This is a great tradition for the dead demons. Those who are buried in the pit attain heaven.

पदच्छेदः

रक्षसांरक्षस् (६.३)
गतसत्त्वानाम्गत (√गम् + क्त)–सत्त्व (६.३)
एषएतद् (१.१)
धर्मःधर्म (१.१)
सनातनःसनातन (१.१)
अवटेअवट (७.१)
येयद् (१.३)
निधीयन्तेनिधीयन्ते (√नि-धा प्र.पु. बहु.)
तेषांतद् (६.३)
लोकाःलोक (१.३)
सनातनाःसनातन (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष सां त्त्वा ना
मे र्मः ना नः
टे येनि धी न्ते
ते षां लो काः ना नाः