३.३०.१२

उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ।
सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा ॥

पदच्छेदः

उच्छेत्तारंउच्छेत्तृ (२.१)
(अव्ययः)
धर्माणांधर्म (६.३)
परदाराभिमर्शनम्परदार–अभिमर्शन (२.१)
सर्वदिव्यास्त्रयोक्तारंसर्व–दिव्य–अस्त्र–योक्तृ (२.१)
यज्ञविघ्नकरंयज्ञ–विघ्न–कर (२.१)
सदासदा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

च्छे त्ता रं र्मा णां
दा राभिर्श नम्
र्व दि व्यास्त्र यो क्ता रं
ज्ञ विघ्न रं दा