३.३२.८

हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः ।
इन्द्रेणैवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः ॥

अन्वयः

इन्द्रेण by Indra, अश्मवृष्टिभिः by raining hailstones, आहतम् destroyed, उत्तमं सस्यमिव like the crop ready for harvest, शरवृष्टिभिः rain of arrows, हन्यमानम् killed, तत् सैन्यम् that army, पश्यामि witnessed.

Summary

Just as Indra destroys the crop ready for harvest by raining hailstones, I have seen Rama killing the army with a shower of arrows.

पदच्छेदः

हन्यमानंहन्यमान (√हन् + शानच्, २.१)
तुतु (अव्ययः)
तत्तद् (२.१)
सैन्यंसैन्य (२.१)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
शरवृष्टिभिःशर–वृष्टि (३.३)
इन्द्रेणेवोत्तमंइन्द्र (३.१)–इव (अव्ययः)–उत्तम (१.१)
सस्यम्सस्य (१.१)
आहतंआहत (√आ-हन् + क्त, १.१)
त्व्तु (अव्ययः)
अश्मवृष्टिभिःअश्मन्–वृष्टि (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्य मा नंतु त्सै न्यं
श्यामि वृष्टि भिः
न्द्रे णै वोत्त मंस्य
मा तं त्वश्म वृष्टि भिः