३.३३.१०

कामगं रथमास्थाय शुशुभे राक्षसाधिपः ।
विद्युन्मण्डलवान्मेघः सबलाक इवाम्बरे ॥

पदच्छेदः

कामगंकाम–ग (२.१)
रथम्रथ (२.१)
आस्थायआस्थाय (√आ-स्था + ल्यप्)
शुशुभेशुशुभे (√शुभ् लिट् प्र.पु. एक.)
राक्षसाधिपःराक्षस–अधिप (१.१)
विद्युन्मण्डलवान्विद्युन्मण्डलवत् (१.१)
मेघःमेघ (१.१)
सबलाकसबलाक (१.१)
इवाम्बरेइव (अव्ययः)–अम्बर (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

का गं मा स्था
शुशु भे राक्ष साधि पः
वि द्यु न्मण्ड वा न्मे घः
ला वाम्ब रे