३.३३.११

सशैलं सागरानूपं वीर्यवानवलोकयन् ।
नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः ॥

अन्वयः

वीर्यवान् valiant, सः he, शैलम् the mountain, सहस्रशः thousandfold, नानापुष्पफलैः varieties of flowers and fruits, वृक्षैः with trees, अनुकीर्णम् full of, सागरानूपम् shore of the sea, अवलोकयन् seeing.

Summary

Valiant Ravana wentwatching the mountains full of thousands of trees bearing flowers and fruits on the shore of the sea.

पदच्छेदः

सशैलं (अव्ययः)–शैल (२.१)
सागरानूपंसागर–अनूप (२.१)
वीर्यवान्वीर्यवत् (१.१)
अवलोकयन्अवलोकयत् (√अव-लोकय् + शतृ, १.१)
नानापुष्पफलैर्नाना (अव्ययः)–पुष्प–फल (३.३)
वृक्षैर्वृक्ष (३.३)
अनुकीर्णंअनुकीर्ण (√अनु-कृ + क्त, २.१)
सहस्रशःसहस्रशस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

शै लं सा रा नू पं
वीर्य वा लो यन्
ना ना पुष्प लै र्वृ क्षै
नु की र्णंस्र शः