३.३३.१६

दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् ।
क्रीडा रतिविधिज्ञाभिरप्सरोभिः सहस्रशः ॥

अन्वयः

दिव्याभरणमाल्याभिः bedecked with fine ornaments and garlands, दिव्यरूपाभिः paragons of beauty, क्रीडारतिविधिज्ञाभिः ladies acquainted with various lovesports, सहस्रशः thousands, अप्सरोभि: apsaras, आवृतम् full of.

Summary

(The place was) full of apsaras in their thousands and paragons of beauty adorned with divine ornaments and garlands, and experts in lovesports.

पदच्छेदः

दिव्याभरणमाल्याभिर्दिव्य–आभरण–माल्य (३.३)
दिव्यरूपाभिर्दिव्य–रूप (३.३)
आवृतम्आवृत (√आ-वृ + क्त, २.१)
क्रीडारतिविधिज्ञाभिर्क्रीडा–रति–विधि–ज्ञ (३.३)
अप्सरोभिःअप्सरस् (३.३)
सहस्रशःसहस्रशस् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि व्या मा ल्याभि
र्दिव्य रू पाभि रावृ तम्
क्री डातिवि धि ज्ञाभि
प्स रो भिःस्र शः