३.३३.१७

सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम् ।
देवदानवसंघैश्च चरितं त्वमृताशिभिः ॥

अन्वयः

श्रीमतीभिः prosperous (deities), देवपत्नीभिः goddesses, सेवितम् inhabited, श्रिया resort , वृतम् endowed, अमृतार्थिभिः gods who sought nectar, देवदानवसङ्घैश्च by hosts of gods and demons, चरितम् wandered about.

Summary

It was chosen by prosperous wives of gods as a reosrt. Hosts of gods and demons were wandering, there in the hope of tasting nectar.

पदच्छेदः

सेवितंसेवित (√सेव् + क्त, २.१)
देवपत्नीभिःदेव–पत्नी (३.३)
श्रीमतीभिःश्रीमत् (३.३)
श्रियाश्री (३.१)
वृतम्वृत (√वृ + क्त, २.१)
देवदानवसंघैश्देव–दानव–संघ (३.३)
(अव्ययः)
चरितंचरित (√चर् + क्त, २.१)
त्व्तु (अव्ययः)
अमृताशिभिःअमृत–आशिन् (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सेवि तं दे त्नी भिः
श्री ती भिःश्रि यावृ तम्
दे दा सं घैश्च
रि तंत्वमृ ताशि भिः