३.५३.३३

प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते ।
नेमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ॥

पदच्छेदः

प्रसादंप्रसाद (२.१)
कुरुकुरु (√कृ लोट् म.पु. )
मेमद् (६.१)
क्षिप्रंक्षिप्रम् (अव्ययः)
वश्योवश्य (१.१)
दासोदास (१.१)
ऽहम्मद् (१.१)
अस्मिअस्मि (√अस् लट् उ.पु. )
तेत्वद् (६.१)
नेमाः (अव्ययः)–इदम् (१.३)
शून्याशून्य (१.१)
मयामद् (३.१)
वाचःवाच् (१.३)
शुष्यमाणेनशुष्यमाण (√शुष् + शानच्, ३.१)
भाषिताःभाषित (√भाष् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र सा दंकुरु मे क्षि प्रं
श्यो दा सोऽहस्मि ते
ने माः शू न्या या वा चः
शुष्य मा णे भाषि ताः