३.५९.२८

तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवः ।
बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः ॥

अन्वयः

ततः then, प्रियबान्धवः dear friend, धर्मज्ञः knower of dharma, लक्ष्मणः Lakshmana, प्रश्रिताञ्जलिः with folded palms, प्रश्रितम् humbly, बहुप्रकारम् many ways, तम् him, सान्त्वयामास consoled.

Summary

Then Lakshmana, the knower of dharma and a dear friend offered obeisance most humbly with folded palms and consoled Rama in many ways.

पदच्छेदः

तंतद् (२.१)
सान्त्वयामाससान्त्वयामास (√सान्त्वय् प्र.पु. एक.)
ततोततस् (अव्ययः)
लक्ष्मणःलक्ष्मण (१.१)
प्रियबान्धवःप्रिय–बान्धव (१.१)
बहुप्रकारंबहु–प्रकार (२.१)
धर्मज्ञःधर्म–ज्ञ (१.१)
प्रश्रितःप्रश्रित (१.१)
प्रश्रिताञ्जलिःप्रश्रित (√प्र-श्रि + क्त)–अञ्जलि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं सान्त्व या मा तो
क्ष्म णःप्रि बान्ध वः
हुप्र का रं र्म ज्ञः
प्रश्रि तः प्रश्रि ताञ्ज लिः