३.६०.३३

रथाक्षमात्रा विशिखास्तपनीयविभूषणाः ।
कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः ॥

अन्वयः

रथाक्षमात्राः of the size of the chariot's axle, विशिखाः pointless arrows, तपनीयविभूषणाः adorned with bright gold, अभिहताः destroyed, इमे बाणाः these arrows, घोरकर्मणः performing terrible deeds, कस्य whose, प्रकीर्णाः scattered about?

Summary

Whose are these pointless arrows of the size of a chariot axle adorned with bright gold destroyed and scattered ? Who is he that has performed such terrible deeds?

पदच्छेदः

रथाक्षमात्रारथ–अक्ष–मात्र (१.३)
विशिखास्विशिख (१.३)
तपनीयविभूषणाःतपनीय–विभूषण (१.३)
कस्येमे (६.१)–इदम् (१.३)
ऽभिहताअभिहत (√अभि-हन् + क्त, १.३)
बाणाःबाण (१.३)
प्रकीर्णाप्रकीर्ण (√प्र-कृ + क्त, १.३)
घोरकर्मणःघोर–कर्मन् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

थाक्ष मा त्राविशि खा
स्त नीवि भू णाः
स्ये मेऽभि ता बा णाः
प्र की र्णा घोर्म णः