३.६१.२

वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर्मुहुः ।
हन्तुकामं पशुं रुद्रं क्रुद्धं दक्षक्रतौ यथा ॥

पदच्छेदः

वीक्षमाणंवीक्षमाण (√वि-ईक्ष् + शानच्, २.१)
धनुःधनुस् (२.१)
सज्यंसज्य (२.१)
निःश्वसन्तंनिःश्वसत् (√निः-श्वस् + शतृ, २.१)
मुहुर्मुहुर् (अव्ययः)
मुहुःमुहुर् (अव्ययः)
हन्तुकामंहन्तु–काम (२.१)
पशुंपशु (२.१)
रुद्रंरुद्र (२.१)
क्रुद्धंक्रुद्ध (√क्रुध् + क्त, २.१)
दक्षक्रतौदक्ष–क्रतु (७.१)
यथायथा (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वीक्ष मा णं नुः ज्यं
निःश्व न्तंमु हुर्मु हुः
न्तु का मं शुं रु द्रं
क्रु द्धं क्षक्र तौ था